|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.88. अध्यायः 088
Mahabharata - Karna Parva - Chapter Topics
दुःशासनवधक्रोधादात्मनामभिद्रुतदतां तदनुजानां भीमेन वधः॥ 1 ॥ दुःशासनादिनिधनाद्बिश्यतः कर्णस्य शल्येन प्रोत्साहनम्॥ 2 ॥ सङ्कुलयुद्धम्॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-88-0x(5049)(59371)
स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत।
इत्युच्चैर्वचनं प्राह प्रतिनृत्यन्वृकोदरः॥ 8-88-1(59372)
एष ते रुधिरं तीव्रं पिबामि पुरुषादवत्।
वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति॥ 8-88-2(59373)
ये चास्मान्प्रतिनृत्यन्ति तदा गौरिति गौरिति।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति॥ 8-88-3(59374)
प्रमाणकोट्यां शयने कालकूटकभोजनम्।
दंशनं चाहिभिस्तीक्ष्णैर्दाहं जतुगृहे च यत्॥ 8-88-4(59375)
द्यूते च दोषभूयस्त्वमरण्ये वसतिश्च या।
इष्वस्त्राणि च सङ्ग्रामे अनिलानिलवेश्मसु॥ 8-88-5(59376)
दुःखान्येवाभिजानीमो न सुखानि कदाचन।
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य वयं सदा॥ 8-88-6(59377)
इत्युच्चैर्वचनं प्रोच्य जयं प्राप्य वृकोदरः।
पुनरेव महाराज तव सैन्यमभिद्रवत्॥ 8-88-7(59378)
रक्तार्द्रपाणिस्तु ततो महात्मा
गदापाणिः काल इवान्तकाले।
विभीषयंस्तव पुत्रस्य सैन्य--
मितस्ततो धावति वाहिनीं ते॥ 8-88-8(59379)
ततः क्षणाद्भारत शून्यमासी--
दायोधनं घोरतरं कुरूणाम्।
यत्राजिमध्ये प्रापिबद्भीमसेनो
दुःशासनस्य रुधिरं क्रोधदीप्तः॥ 8-88-9(59380)
स हत्वा समरे राजन्राजपुत्रं महाबलम्।
पूर्णकामो मदोदग्रः सिंहो रुरुमिवोत्कटः॥ 8-88-10(59381)
रुधिरार्द्रो महाराज व्यशोभत परन्तपः।
सपुष्पः किंशुक इव रक्तरक्ततरो बभौ॥ 8-88-11(59382)
रुधिराक्तो घोरवेषः क्रुद्धो राजन्वचोऽब्रवीत्।
ब्रूहीदानीं पापमते नृशंस पतितो ह्यसि॥ 8-88-12(59383)
दुःशासने यादृशं संश्रुतं न--
स्तदवाप्तं पाण्डवैः सर्वमेव।
अत्रैवमाप्स्याम्यपरं द्वितीयं
दुर्योधनं यज्ञपशुं विशस्य॥ 8-88-13(59384)
शिरो मृदित्वाऽस्य पुनश्च शान्तिं
यास्याम्यहं कौरवाणां समक्षम्।
या साऽपतिः सा सपतिर्हि जाता
यास्ताः सपत्योऽपतयस्तु जाताः॥ 8-88-14(59385)
पश्यन्तु चित्रं विविधं हि लोके
ये वै तिलाः षण्डतिला बभूवुः।
ते चेत्संसिद्धा निधनं गताः परे
किं चित्ररूपं बत जीवलोके॥ 8-88-15(59386)
एतावदुक्त्वा वचनं प्रहृष्टः
प्राक्रोशदुच्चै रुधिरार्द्रवक्रः।
ननर्त चैवातिबलो महात्मा
वृत्रं निहत्येव सहस्रनेत्रः॥ 8-88-16(59387)
दृष्ट्वा तु नृत्यन्तमुदग्रवीर्यं
कालं यथा त्वन्तकाले प्रजानाम्।
महद्भयं चाधिरथिं विवेश
जये निराशाश्च सुतास्त्वदीयाः॥ 8-88-17(59388)
दुःशासने तु निहते पुत्रास्तव महारथाः।
महत्क्रोधविषं वीरा धारयन्तो महाबलाः।
ते तु राजन्महावीर्या भीमं प्राच्छादयञ्छरैः॥ 8-88-18(59389)
निषङ्गी कवची खङ्गी दण्डधारो धनुर्धरः।
अलम्बुर्जलसन्धश्च वातवेगसुवर्चसौ॥ 8-88-19(59390)
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः।
भीमसेनं महाबाहुं पीडयामासुरञ्जसा॥ 8-88-20(59391)
स वध्यमानो विशिखैः समन्तात्तैर्महारथैः।
भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ॥ 8-88-21(59392)
ततः परिवृतो राजन्नवभिः शत्रुतापनैः।
दुःशासनादवरजैः पुत्रैस्तव वृकोदरः॥ 8-88-22(59393)
तांस्तु भल्लैर्महावेगैर्नवभिर्नव भारत।
रुक्माङ्गदान्रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम्॥ 8-88-23(59394)
हतेषु तव पुत्रेषु बलं तद्विप्रदुद्रुवे।
पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम्॥ 8-88-24(59395)
ततः कर्णं महाराज प्रविवेश महद्भयम्।
दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव॥ 8-88-25(59396)
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः। 8-88-26(59397)
उवाच वचनं कर्णं प्राप्तकालं हितं तदा॥ 8-88-27(59398)
एते द्रवन्ति राजानो भीमसेनभयार्दिताः।
दुर्योधनश्च सम्मूढो भ्रातृव्यसनकर्शितः॥ 8-88-28(59399)
दुःशासनस्य रुधिरे पीयमाने महात्मना।
व्यापन्नचेताः सहसा शोकोपहतचेतनः॥ 8-88-29(59400)
उपासते त्वामेते हि परिवार्य महारथाः।
कृपप्रभृतयः कर्ण हतशेषाः सहोदराः॥ 8-88-30(59401)
पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः।
त्वामेवाभिमुखाः शूरा युद्धाय समुपस्थिताः॥ 8-88-31(59402)
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः।
क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम्॥ 8-88-32(59403)
भारो हि धार्तराष्ट्रेण त्वयि सर्वः समाहितः।
तमुद्वह महाबाहो यथाशक्ति यथाबलम्॥ 8-88-33(59404)
जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये।
वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव।
त्वयि मोहं समापन्ने पाण़्डवानभिधावति॥ 8-88-34(59405)
सञ्जय उवाच। 8-88-35x(5050)
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततोजसः।
हृदि मानुष्यकं भावं कृत्वा युद्वाय सुस्थिरम्॥ 8-88-35(59406)
ततः क्रुद्धो वृषसेनोऽभ्यधाव--
द्भीमं समायान्तममित्रसाहम्।
बाणैः किरन्तं प्रतियाति चोग्रं
व्यात्ताननं कालमिवापतन्तम्॥ 8-88-36(59407)
तमभ्यधावन्नकुलः प्रवीर--
मारादमित्रं प्रतुदन्पृषत्कैः।
कर्णस्य पुत्रं समरे प्रहृष्टं
जिष्णुर्जिघांसुर्मघवेव जम्भम्॥ 8-88-37(59408)
ततो ध्वजं स्फाटिकहेमचित्रं
चिच्छेद धैर्यान्नकुलः क्षुरेण।
कर्णात्मजस्येष्वसनं च चित्रं
भल्लेन जाम्बूनदचित्रनद्धम्॥ 8-88-38(59409)
अथान्यदादाय धनुः स शीघ्रं
कर्णात्मजः पाण्डवमभ्यविध्यत्।
दिव्यैरस्त्रैरभ्यवर्षत्तदैनं
कर्णस्य पुत्रो नकुलं कृतास्त्रम्॥ 8-88-39(59410)
ततः क्रुद्धो नकुलः कर्णपुत्रं
शरैर्महोल्काभिरिवाभ्यपीडयत्।
स कर्णपुत्रो नकुलस्य राज--
न्सर्वानस्त्रान्वारयदुत्तमास्त्रैः॥ 8-88-40(59411)
आसीत्सुघोरं भरतप्रवीर
युद्धं तदा कर्णजपाण्डवाभ्याम्॥ 8-88-41(59412)
वनायुजान्सुकुमारान्सुशुभ्रा--
नलङ्कृताञ्जातरूपेण चित्रान्।
जघान चाश्वान्नकुलस्य वीरो
रणाजिरे सूतपुत्रस्य पुत्रः॥ 8-88-42(59413)
ततो हताश्वादवरुह्य याना--
च्चर्माऽऽददे रुचिरं बर्हिचित्रम्।
आकाशसङ्काशमसिं प्रगृह्य
प्रकाशमानः खगवच्चचार॥ 8-88-43(59414)
ततोऽस्य पक्षाननयद्यमाय
द्विसाहस्रान्नकुलः क्षिप्रकारी।
ते प्रापतन्नसिना वै विशस्ता
यथाऽश्वमेधे पशवः शमित्रा॥ 8-88-44(59415)
ततस्ततो विजिता युद्धशौण्डा
नानादेश्याः सुहृदः सत्यसन्धाः।
एकेन शीघ्रं नकुलेन नुन्नाः
सारेप्सुनेवोत्तमचन्दनस्य॥ 8-88-45(59416)
भूमौ चरन्तं नकुलं रथौघाः
समन्ततः सायकैः प्रत्यगृह्णन्।
स तुद्यमानो नकुलो विहङ्गै--
श्चचार सङ्ख्ये द्विषतो विनिघ्नन्॥ 8-88-46(59417)
तं कर्णपुत्रोऽपि चरन्तमाजौ
नराश्वमातङ्गरथप्रवीरान्।
निघ्नन्तमष्टादशभिः पृषत्कै--
र्विव्याध वीरः स चुकोप विद्धः॥ 8-88-47(59418)
ततोऽभ्यधावत्समरे जिघांसुः
कर्णात्मजं पाण्डुसुतो नृवीरम्।
तस्येषुभिर्वधमत्सूतपुत्रो
महारणे वर्म सहस्रभारम्॥ 8-88-48(59419)
तस्याथ कांस्यं सुशितं सुपीत--
मसिप्रवीरं गुरुभारासाहम्।
द्विषच्छरीरापहरं सुघोर--
माधून्वतः सर्पमिवात्तकोशम्॥ 8-88-49(59420)
क्षिप्रं शरैः षङ्भिरमित्रसाह--
श्चकर्त खङ्गं निशितैः सुधारैः।
पुनश्च पार्थं निशितैः पृषत्कैः
स्तनान्तरे क्षिप्रमिवात्यविध्यत्॥ 8-88-50(59421)
स भीमसेनस्य रथं च गत्वा
ववर्ष वै शरवर्षं सुघोरम्॥ 8-88-51(59422)
नकुलमथ विदित्वा छिन्नबाणासनासिं
विरथमरिभिरार्तं कर्णपुत्रास्त्रमग्नम्।
पवनचलपताका ह्लादिनो वल्गिताश्वाः
परपुरुषनियुक्ताः स्वै रथैः शीघ्रमीयुः॥ 8-88-52(59423)
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा
द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः।
द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान्
भगवत इव रुद्राः सङ्ख्यया हेतिमन्तः॥ 8-88-53(59424)
अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तः
कृपहृदिकसुतौ च द्रौणिदुर्योधनौ च।
शकुनिशुकवृकाश्च क्राथदेवावृधौ च
द्विरदजलदघौषैः स्यन्दनैः कार्मुकैश्च॥ 8-88-54(59425)
अथ तव रथवर्यास्तान्दशैकप्रवीरा--
निषुभिरशनिकल्पैस्ताडयन्तो न्यरुन्धन्।
नवजलदसवर्णैर्हस्तिभिस्तान्स्म वव्रु--
र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः॥ ॥ 8-88-55(59426)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टाशीतितमोऽध्यायः॥ 88 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|